कादम्बरी

कादम्बरी

Advertisements
Published in: on April 16, 2009 at 9:09 am  Leave a Comment  

Day 11

        क्रमेण गत्वा हेमकूटम्, आसाद्य गन्धर्वराजकुलम्, अवाप्य कन्यान्तःपुरम्, श्रीमण्टपस्य मध्यभागे नातिमहतः पर्यङ्कस्योपाश्रये धवलोपधानन्यस्तभुजलतावष्टम्भेनावस्थितां सर्वरमणीयकानानामेकनिवासभूतां कादम्बरीं ददर्श। सा च सरभसमुत्थाय, महाश्वेतां कण्ठे जग्राह। महाश्वेताऽपि दृढदत्तकण्ठग्रहा तामवादीत् – ‘सखि कादम्बरि, भारते वर्षे रक्षितप्रजापीडः तारापीडो नाम राजा वसुमतीम् आसमुद्रं प्रशास्ति। तस्यायं चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनानुगतो भूमिमिमाम्। एष च दर्शनात् प्रभृति प्रकृत्या मे निष्कारणबन्धुतां गतः। कथिता चास्य मया बहुप्रकारं प्रियसखी। तत् ‘अपूर्वदर्शनोऽयम्’ इति विमुच्य लज्जाम्, यथा मयि, तथाऽत्रापि वर्तितव्यम्’ – इति॥

कादम्बरी तु सविभ्रमकृतप्रणामा महाश्वेतया सह पर्यङ्के निषसाद। चन्द्रापीडश्च ससंभ्रमं परिजनोपनीतायां हेमपादाङ्कितायां पीठिकायां समुपाविशत्। परिजनोपनीतेन सलिलेन कादम्बरी स्वयमुत्थाय महाश्वेतायाश्चरणौ प्रक्षाल्य, उत्तरीयांशुकेनापमृज्य, पुनः पर्यङ्कमारुरोह। चन्द्रापीडस्यापि कादम्बर्याः सखी मदलेखा प्रक्षालितवती चरणौ॥

अथ परस्परकुशलानुयोगानन्तरं ताम्बूलदानोद्यतां कादम्बरीं महाश्वेता बभाषे – ‘सखि! सर्वाभिरस्माभिः अयमभिनवागतश्चन्द्रापीडः आराधनीयः। तदस्मै तावद्दीयताम्’ – इति। इत्युक्ता च सा किञ्चिद्विबर्तितावनमितमुखी शनैरव्यक्तमिव – ‘ प्रियसखि! लज्जेऽहमनुपजातपरिचया प्रागल्भ्येनानेन। गृहाण, त्वमेवास्मै प्रयच्छ’ – इति तामुवाच। पुनःपुनरभिधीयमाना च तया, ग्राम्येव कथमपि चिरात् दानाभिमुखं मनश्चक्रे। वेपमानाङ्गयष्टिः च सा, महाश्वेतामुखादनाकृष्टदृष्टिरेव हस्तपल्लवं प्रसार्य, चन्द्रापीडहस्ते ताम्बूलमर्पितवती। गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छत् ॥

अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत् – ‘आयुष्मति! देवश्चित्ररथः, देवी च मदिरा त्वां द्रष्टुमाह्वयतः’ – इति। एवमभिहिता गन्तुकामा सा ‘सखि! चन्द्रापीडः क्वास्ताम्?’ इति कादम्बरीमपृच्छत्। सा तु ‘सखि महाश्वेते! किमेवमभिदधासि? दर्शनादारभ्य शरीरस्याप्ययमेव प्रभुः, किमुत भवनस्य, विभवस्य, परिजनस्य वा। यत्रास्मै रोचते, प्रियसखीहृदयाय वा, तत्रायमास्ताम्’ – इति प्रत्युवाच॥

तच्छ्रुत्वा महाश्वेता – ‘तदत्रैव त्वत्प्रासादसमीपवर्तिनि प्रमदवने क्रीडापर्वतकमणिवेश्मन्यास्ताम्’ – इत्यभिधाय, गन्धर्वराजं द्रष्टुं ययौ। चन्द्रापीडोऽपि तयैव सह निर्गत्य, पूर्वदृष्टेन केयूरकेणोपदिश्यमानमार्गः क्रीडापर्वतमणिमन्दिरमगात्। गते च तस्मिन्, गन्धर्वराजपुत्री विसृज्य सकलं परिजनम्, परिमितपरिचारिकाभिरनुगम्यमाना, प्रासादमारुरोह। तत्र च शयनीये समुपविश्यैवमचिन्तयत् – अहो! किमारब्धं चपलया मया। परित्यक्तः कुलकन्यकानां क्रमः। न परीक्षिताऽस्य चित्तवृत्तिः। आसन्नवर्ती सखीजनोऽप्युपलक्षयतीति मन्दया मया न लक्षितम्। श्रुत्वैतं वृत्तान्तं किं वक्ष्यत्यम्बा तातो वा गन्धर्वलोको वा। किं करोमि! केनोपायेन स्खलितमिदं प्रच्छादयामि। तथा महाश्वेताव्यतिकरेण प्रतिज्ञा कृता। पूर्वकृतपुण्यसञ्चयेनैवायमानीतो मम विप्रलम्भ्कश्चन्द्रापीडः’ – इति संचिन्त्य गुर्वीं लज्जामुवाह॥

Published in: on February 3, 2008 at 12:15 am  Leave a Comment  

Day 10

अथ साऽकथयत् – ‘महाभाग! श्रूयताम् – अमृतसंभवादप्सरः कुलात् मदिरेति नाम्ना मदिरायतेक्षणा कन्यकाऽभूत्। तस्याश्चासौ देवश्चित्ररथः पाणिमग्रहीत् । तयोश्च दुहितृरत्नमुदपादि कादम्बरीति नाम्ना। सा च मे जन्मनः प्रभृति एकासनशयनपानाशना बालमित्रम्। सेयममुनैव मदीयवृत्तान्तेन समुपजातशोका निश्चयमकार्षीत् – ‘नाहं कथञ्चिदपि सशोकायां महाश्वेतायाम् आत्मनः पाणिं ग्राहयिष्यामि’ – इति। गन्धर्वराजश्च कर्णपरम्परया दुहितुर्निश्चयमश्रौषीत्। गच्छति काले, समुपारूढयौवनामालोक्य स ताम् एकापत्यतयाऽतिप्रियतया च न शक्तो बभूव किञ्चिदप्यभिधातुम्। अथायमपश्यन्नुपायान्तरम्, ‘वत्से महाश्वेते! त्वमेव शरणमिदानीं कादम्बरीमनुनेतुम्’ इति संदिश्य, क्षीरोदनामनि कञ्चुकिनमद्यैव प्रत्युषसि मत्समीपं प्रेषितवान्। ततो मया गुरुवचनगौरवेण सखीप्रेम्णा च, ‘सख कादम्बरि! किं दुःखितमपि जनम् अतितरां दुःखयसि? जीवन्तीमिच्छसि चेन्माम्, तत्कुरु गुरुवचनमवितथम्’ इति संदिश्य, क्षीरोदेन सार्धं सा तरलिका विसर्जिता। गतायां च तस्याम्, अनन्तरमेवेमां भूमिपनुप्राप्तो महाभागः’ इत्यभिधाय तूष्णीमभवत्॥

अथ क्रमेण सुप्तामालोक्य महाश्वेताम्, चन्द्रापीडः पल्लवशयने शनैः शनैः समुपविष्टः, ‘किंनु खल्वस्यां वेलायां मामन्तरेण चिन्तयति वैशम्पायनः” इति चिन्तयन्नेव, निद्रां ययौ। अथ क्षीणायां क्षपायाम्, सन्ध्यामुपास्य शिलातले समुपविष्टायां महाश्वेतायाम्, निर्वर्तितप्राभातिकविधौ चन्द्रापीडे, षोडशवर्षवयसा केयूरकनाम्ना गन्धर्वदारकेणानुगम्यमाना तरलिका प्रादुरासीत्। समीपमुपसृत्य कृतप्रणामां तां महाश्वेता ‘किं त्वया दृष्टा प्रियसखी कादम्बरी? करिष्यति वा तदस्मद्वचनम्? ‘इत्यपृच्छत् ॥

अथ सा तरलिका व्यजिज्ञपत् -‘भर्तृदारिके! दृष्टा मया कादम्बरी। विज्ञापिता च निखिलं भर्तृदुहितुः सन्देशम्। आकर्ण्य च यत्तया प्रतिसन्दिष्टम्, तदेष तस्या एव वीणावाहकः केयूरकः कथयिष्यति’ – इति। विरतवचसि तस्याम्, केयूरकोऽब्रवीत् – “भर्तृदारिके! देवी कादम्बरी दत्तकण्ठग्रहा त्वां विज्ञापयति -‘ यत्र भर्तृविरहविधुरा प्रियसखी महत् कृच्छ्रमनुभवति, तत्राहमविगणय्यैतत्, कथमात्मसुखार्थिनी पाणिं ग्राहयिष्यामि। कथं वा मम सुखं भविष्यति? तन्मा कृथाः स्वप्नेऽपि पुनरिममर्थं मनसि” – इति॥

महाश्वेता तु तच्छ्रुत्वा, सुचिरं विचार्य, ‘गच्छ स्वयमेवाहमागत्य यथार्हमाचरिष्यामि’ इत्युक्त्वा, केयूरकं प्राहिणोत्। गते च केयूरके चन्द्रापीडमुवाच – ‘राजपुत्र! रमणीयो हेमकूटः। चित्रा चित्ररथराजधानी। सरलहृदया महानुभावा च कादम्बरी। तदितो मयैव सह गत्वा हेमकूटम्, दृष्ट्वा च तत्र मन्निर्विशेषां कादम्बरीम्, अपनीय तस्या मोहविलसितम्, एकमहो विश्रम्य, श्वोभूते प्रत्यागमिष्यसि’ – इति। इत्युक्तवतीं ताम्, चन्द्रापीडः – ‘भगवति! दर्शनात् प्रभृति परवानयं जनः। कर्तव्येषु यथेष्टं नियुज्यताम्’ – इत्यभिधाय, तया सहैवोदचलत् ॥

Published in: on January 26, 2008 at 9:56 pm  Leave a Comment  

Day 9

तच्च श्रुत्वा, दूरादेव मुक्तैकताराक्रन्दा, यथाशक्ति त्वरितैः पादप्रक्षेपैः पदे पदे प्रस्खलन्ती, तं प्रदेशं गत्वा, सरस्तीरसमीपवर्तिनि शशिमणिशिलातले विरचितं मृणालमयं शयनमधिशयानं तत््क्षणविगतजीवितं तं मन्दभाग्या जीवितनाथमद्राक्षम्। उद्भूतमूर्छान्धकारा च, तदा ‘क्वाहमगमम्। किमकरवम्। किं व्यलपम्’ इति सर्वमेव नाज्ञासिषम्। ततश्च तथाभूते तस्मिन्नवस्थान्तरे, मरणैकनिश्चया तरलिकामब्रवम् – ‘अयि! उत्तिष्ठ। काष्ठान्याहृत्य विरचय चिताम्। अनुसरामि जीवितेश्वरम्’ इति।।

अत्रान्तरे चन्द्रमण्डलविनिर्गतो दिव्याकृतिः पुरुषः, मृणालधवलाङगुलिभ्यां बाहुभ्यां तमुपरतमुत््क्षिपन्, गम्भीरेण स्वरेण -‘ वत्से महाश्वेते! न परित्याज्यास्त्वया प्राणाः। पुनरपि तवानेन सह भविष्यति समागमः’ इति माम् आदृतः पितेवाभिधाय, सहैवानेन गगनतलमुदपतत्। कपिञ्जलस्तु ‘दुरात्मन्! क्व मे वयस्यमपहृत्य गच्छसि?’ इति अभिधाय, उन्मुखः सवेगमुत्तरीयवल्कलेन परिकरमाबध्य, तमेवानुसरन् अन्तरिक्षमुदगात्। पश्यन्त्या एव मे सर्व एव ते तारागणमध्यमविशन्।।

अहं तु द्वितीयेनेव प्रियमरणेन कपिञ्जलगमनेन द्विगुणीकृतशोका तस्मिन्नेव सरस्तीरे तरलिकाद्वितीया क्षपां क्षपितवती। प्रत्युषसि तूत्थाय तस्मिन्नेव सरसि स्नात्वा, कृतनिश्चया, तमेव कमण्डलुमादाय, तान्येव च वल्कलानि तामेवक्षमालां गृहीत्वा, ब्रह्मचर्यमाश्रित्य, बुद्धवा निस्सारतां संसारस्य देवमिमं अनाथशरणं शरणार्थिनी स्थाणुमाश्रिता। अपरेद्युश्च कुतोऽपि समुपलब्धवृत्तान्तस्तातः सहाम्बया सहबन्धुवर्गेणागत्य तैस्तैरुपायैः गृहगमनाय मे प्रयतमानः दृढनिश्चयां मां विसृज्य, निराशः सशोक एव गृहानयासीत्। साऽहम् ‘एवंविधा निर्लज्जा निष्फलजीविता निःसुखा च’ इत्युक्त्वा वल्कलोपान्तेन वदनमाच्छाद्य, मुक्तकण्ठं प्रारोदीत्।।

चन्द्रापीडस्तु बहुभिरुपसान्त्वनैः संस्थाप्य ताम्, अञ्जलिपुटोपनीतेन निर्झरजलेन प्रक्षालितमुखीमकारयत्। अथ क्षीणे दिवसे, महाश्वेता मन्दं मन्दमुत्थाय, पश्चिमां सन्ध्यामुपास्य, कमण्डलुजलेन प्रक्षालितचरणा, वल्कलशयनीये सखेदमुष्णं च निःश्वस्य निषसाद।।

चन्द्रापीडोऽप्युत्थाय, सकुसुमं प्रस्रवणजलाञ्लिमवकीर्य कृतसन्ध्याप्रणामः, तस्मिन् द्वितीये शिलातले मृदुभिर्लतापल्लवैः शय्यामकल्पयत्। उपविष्टश्च तस्यां पुनः पुनर्मनसा तमेव महाश्वेतावृत्तान्तमनुभावयन् पुनरेनामप्राक्षीत् – भगवति! परिचारिका दुःखसब्रह्मचारिणी तरलिका क्व गता? – इति ।।

Published in: on January 19, 2008 at 10:46 pm  Leave a Comment  

Day 8

          अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा स्वभवनमयासीत् । तया तु तत्रागत्य ‘किं कृतं, किमभिहितं’ इति  सर्वमेव शून्यहृदया नालक्षयम् । गतायां च तस्यां, अस्तमुपगते भगवति सवितरि, किंकर्तव्यतामूढा, तामेव तरलिकामपृच्छम् – ‘अयि तरलिके! कथं न पश्यसि, दृढमाकुलं मे हृदयम् । न स्वयमण्वपि कर्तव्यमलमस्मि परिज्ञातुम्। उपदिशतु मे भवती, यदत्र सांप्रतम्। अयमेवं त्वत्समक्षमेवाभिधाय गतः कपिञ्जलः। यदि तावत्  ‘इतरकन्यकेव लज्जां विहाय, जनापवादमचिन्तयित्वा, सदाचारमतिक्रम्य, पाणिं ग्राहयामि; तदा गुरुजनातिक्रमादधर्मो महान्। अथ धर्मानुरोधादितरपक्षमङ्गीकरोमि, नियतं स्पृशेन्मां मुनिजनवधजनितं महत् पातकम्’ इत्येवमुच्चारयन्त्यामेव मयि, अभिनवोदितेन रजनिकरबिम्बेन रमणीयताम् अनीयत यामिनी ।। 

             तदा समुपारूढरागम् अमृतमयमिन्दुमण्डलं मृत्युमिव विलोकयन्तीं मूर्च्छा मां निमीलितलोचनामकार्षीत् । अथ संभ्रान्ता तरलिका सरभसमुपनीताभिः चन्दनचर्चाभिः, तालवृन्तानिलैश्च लब्धसंज्ञां माम् आबद्धाञ्जलिरेवमवादीत् – ‘भर्तृदारिके! किं लज्जया गुरुजनापेक्षया वा। प्रसीद, प्रेषय माम् । आनयामि ते हृदयदयितम्, उत्तिष्ठ, स्वयं वा तत्र गम्यताम्’ इति । 

            एवं वादिनीं ताम् ‘उत्तिष्ठ, यथाकथञ्चिदनुद्गतजीविता संभावयामि हृदयदयित जनम्’ इत्यभिदधाना, कथञ्चित्तामेवावलम्ब्योदतिष्ठम। उच्चलितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं चक्षुः। उपजातशङ्का चाचिन्तयम् – ‘इदमपरं किमप्युपक्षिप्तं दैवेन’ – इति। अथ गृहीतविविधकुसुमताम्बूलाङ्गरागया तरलिकयाऽनुगम्यमाना, रक्तांशुकेन कृतशिरोऽवगुण्ठना, केनचिदपि परिजनेनानुपलक्ष्यमाणा, कन्यकान्तःपुरान्निरयासिषम् । निर्गत्य च तत्कालोचितैरालापैस्तया सह तमुद्देशमभ्युपागमम् । तत्र तस्यैव सरसः पश्चिमे तटे पुरुषस्येव रुदितध्वनिं विप्रकर्षात् नातिव्यक्तमुपलक्षयम् । दक्षिणेक्षणस्फुरणेन प्रथममेव मनस्याहितशङ्का, तेन सुतरामवदीर्णहृदया ‘तरलिके! किमिदम्?, इति समयमभिदधाना, तदभिमुखमतित्वरितमगच्छम् ॥

     

          अथ निशीथप्रभावात् दूरादेव विभाव्यमानस्वरम् उन्मुक्तार्तनादम् ‘हा हतोऽस्मि! हा किमिदमापतितम्! हा दुरात्मन् मदन! निर्घृण! किमिदमकृत्यमनुष्ठितम। हा दुर्विनीते महाश्वेते! किमनेन तेऽपकृतम्; आ पाप दुश्चरित चन्द्रचण्डाल! कृतार्थोऽसीदानीम्। हा भगवन् श्वेतकेतो पुत्रवत्सल! न वेत्सि मुषितमात्मानम्। हा तपः! निराश्रयमसि! हा सरस्वति! विधवाऽसि। हा सत्यम्। अनाथमसि। सखे! प्रतिपालय माम्। अहमपि भवन्तमनुयास्यामि। न शक्नोमि भवता विना क्षणप्यवस्थातुम्’  इत्येतान्यन्यानि च विलपन्तं कपिञ्जलमश्रौषम् ॥

Published in: on December 26, 2007 at 1:42 pm  Leave a Comment  

Day 7

 अथ च मदन्तरङगनिर्विशेषया तरलिकाख्यया ताम्बूलकरङ्कवाहिन्या सह, तद्गतयैव कथया कथमपि तं दिवसमत्यवाहयम् ॥   

      अथ दिनान्ते छत्रग्राहिणी समागत्य माम् अकथयत् – ‘भर्तृदारिके! यौ तापसकुमारौ अस्माभिच्छोदसरसस्तीरे दृष्टौ, तयोरन्यतरो द्वारि तिष्ठति’ इति । अहं तु अन्यतमं कञ्चुकिनं समाहूय ‘ गच्छ, प्रवेश्यताम् ‘ इति आदिश्य प्राहिणवम् ॥

      अथ मुहूर्तादिव तं तस्य सवयसं कपिञ्जलमागच्छन्तमपश्यम् । अन्तिकमुपगताय चास्मै सादरं स्वयमासनमुपाहरम् । उपविष्टस्य तस्य प्रक्षाल्य चरणौ, उपमृज्योत्तरीयाञ्जलेन, नातिदूरे समुपाविशम् ॥

      अथ कपिञ्जलो मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव तस्यां मत्समीपोपविष्टायां तरलिकायां चक्षुरपातयत्। अहं तु विदिताभिप्राया ‘भगवन्! अव्यतिरिक्तेयमस्मच्छरीरात्। अशङ्कितमभिधीयताम्’ इत्यवोचम्। एवमुक्तश्च मया कपिञ्जल एवमावादीत् “राजपुत्रि! किं ब्रवीमि । वागेव मे नाभिधेयविषयमवतरति त्रपया। किमारब्धं दैवेन। अपगतायां भवत्याम्, सरस्तीरसमीपवर्तिनि लतागहने लिखितमिवावस्थितम्, मन्मथावेशस्य परां कोटिमधिरूढं सवयसमहमद्राक्षम्। उपसृत्य च ‘सखे पुण्डरीक! कथय किमिदम्? ‘इत्यपृच्छम् ॥

      अथ सुचिरं विलोक्य माम्, आयततरं निश्वस्य – ‘सखे कपिञ्जल! प्रत्यक्षितसर्ववृत्तान्तोऽपि किं मां पृच्छसि ‘? इति लज्जामन्थरमवदत् । अहं तु तदाकर्ण्य, यावच्छक्ति निवारणीय इति मनसाऽवधार्याब्रवम् – ‘सखे पुण्डरीक! सुविदितमेतन्मम। केवलमिदमेव पृच्छामि। यदेतारब्धं भवता किमिदं गुरुभिरुपदिष्टम्? उत धर्मशास्त्रेषु पठितम्? उतापरस्तपसां प्रकारः? कथमेतद्युक्तं भवतो मनसाऽपि चिन्तयितुम्! किं पुनराख्यातुम् ईक्षितुं वा। मूढो हि मदनेनायास्यते। तद्वैर्यमवलम्ब्य, निर्भर्त्स्यतामयं दुराचारः कामः’ इत्येवं वदत एव मे वचनमाक्षिप्य, पाणौ मामवलम्ब्य अवोचत् – ‘सखे! किं बहुनोक्तेन? सर्वथा स्वस्थोऽसि। आशीविषवेगविषमाणाम् एतेषां कुसुमचापसायकानां पतितोऽसि न गोचरे। सुखमुपदिश्यते परस्य। मम तु गत इदानीमुपदेशकालः। किं करोमि। को वाऽपरस्त्वत्समो मे जगति बन्धुः। यावत् प्राणिमि, तावदस्य मदनसन्तापस्य प्रतिक्रियां कर्तुमिच्छामि’ – इति ॥

      एतदाकर्ण्याहमचिन्तयम् – ‘अतिभूमिं गतोऽयं न शक्यते निवर्तयितुम्। अकालान्तरक्षमश्चायमस्य मदनविकारः। अतिगर्हितेनाकृत्येनापि रक्षणीयाम् सुहृदसून् मन्यन्ते साधवः। तदतिह्रेपणमकर्तव्यमपि एतदस्माकमवश्यकर्तव्यमापतितम्। का चान्या गतिः। प्रयामि तस्याः सकाशम्। आवेदयाम्येतामवस्थाम्’ इति चिन्तयित्वा, ‘कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय संजातलज्जो निवारयेत्’ इत्यनिवेद्यैव तस्मै, तत् प्रदेशात् सव्याजमुत्थायागतोऽहम् । अत्र यत् प्राप्तकालं तत् करोतु भवती” – इति ॥

      तदाकर्ण्य, ‘दिष्ट्याऽयमनङ्गो मामिव तमप्यनुबध्नाति’ इति सर्वानन्दानामुपरि वर्तमानाम्, ‘किं मया प्रतिपत्तव्यम्’ इति विचारयन्तीमेव मां प्रतीहारी ससंभ्रमं प्रविश्याकथयत् – ‘भर्तृदारिके! त्वमस्वस्थशरीरेति परिजनादुपलभ्य महादेवी प्राप्ता’ – इति। तच्छ्रुत्वा कपिञ्जलः सत्वरमुत्थाय ‘राजपुत्रि! गच्छामि! सुहृत्प्राणरक्षादक्षिणार्थम् अयमञ्जलिः’ इत्यभिधाय, प्रतिवचनम् अप्रतीक्ष्यैव प्रययौ ॥

Published in: on December 22, 2007 at 11:20 pm  Leave a Comment  

Day 6

       अथैकदा मधुमासदिवसेषु अम्बया सममिदमच्छोदं सरः स्नातुमभ्यागमम्। तत्तन्मनोहरोद्देशदर्शनलोभाक्षिप्तहृदया तत्र तत्र सखीजनेन सह व्यचरम्। एकस्मिन् प्रदेशे झटिति वनानिलेनोपनीतम्, अभिभूतान्यपरिमलं अनाघ्रातपूर्वम् कुसुमगन्धमभ्यजिघ्रम्। ‘कुतोऽयं’ इत्युपारूढकुतूहला कतिचित्पदानि गत्वा, अयुग्मलोचनं वशीकर्तुकामं काममिव सनियमम्, अतिमनोहरम्, सवयसा सह स्नानार्थमागतं मुनिकुमारमपश्यम् । तेन च कर्णावतंसीकृता कुसुममञ्जरीमभिवीक्ष्य, ‘अस्या नन्वयं परिमलः’ इति मनसा निश्चित्य, तं तपोधनयुवानम् ईक्षमाणाऽहम्, नवयौवनसुलभेन कुसुमायुधेन परवशीकृता अभवम्॥

      अथ ‘अशेषजनपूजनीया चेयं जातिः’ इति कृत्वा सविभ्रममस्मै प्रणाममकरवम् । कृतप्रणामायां मयि, मद्विकारदर्शनापहृतधैर्यं तमपि कुमारं प्रदीपमिव पवनः तरलतामनयदनङ्गः । अथ मुहूर्तमिव स्थित्वा, तं द्वितीयमस्य सहचरं मुनिबालकमुपसृत्य प्रणामपूर्वकमपृच्छम् – ‘भगवन् ! किमभिधानः? कस्य वाऽयं तपोधनयुवा? किंनाम्नस्तरोरियमनेनावतंसीकृता कुसुममञ्जरी?” – इति ॥

      स तु मामीषद्विहस्याब्रवीत् – ‘बाले! किमनेन पृष्टेन प्रयोजनम्? अथ कौतुकम्, आवेदयामि; श्रूयताम् –

       “अस्ति सकलभुवनप्रख्यातकीर्तिः रूपातिशयितनलकूबरः, श्वेतकेतुर्नाम दिव्यलोकनिवासी महामुनिः। तं च कदाचित् देवतार्चनकमलान्युद्धर्तुं मन्दाकिनीमवतरन्तं पुण्डरीकोपविष्टा देवी लक्ष्मीर्ददर्श । तद्रूपमवलोकयन्त्यास्तस्याः मन्मथविकृतं मन आसीत्। सद्य एव तया मानसः कुमारः उदपादि। ततस्तमादाय सा – ‘भगवन्! गृहाण तवायमात्मजः’ इत्युक्त्वा श्वेतकेतवे ददौ। असावपि तस्य बालजनोचिताः सर्वाः क्रियाः कृत्वा तस्य पुण्डरीकसंभवतया तदेव ‘पुण्डरीक’ इति नाम चक्रे ॥

       ततः क्रमेण तम् आगृहीतसकलविद्याकलापम् अकार्षीत् । सोऽयं संप्रति चतुर्दशीति भगवन्तं भवानीपतिमुपासितुमागतः। इयं च पारिजातकुसुममञ्जरी रूपातिशयबद्धादरया मार्गसङ्गतया नन्दनवनदेवतया समर्पिता अनिच्छतोऽप्यस्य मया कर्णपूरीकृता ” इति ॥

       इत्युक्तवती तस्मिन्, स तपोधनयुवा – ‘अपि कुतूहलिनि! किमनेन प्रश्नायासेन? यदि रुचितपरिमला, गृह्यतामियम्’ इत्युक्त्वा, समुपसृत्य आत्मीयात् श्रवणात् अपनीय मदीये श्रवणपुटे तामकरोत्। तत्क्षणं लज्जया सह तत्करतलात् गलितां तेन अज्ञाताम् अप्राप्तामेव भूतलम् अक्षमालां गृहीत्वा सलीलं कण्ठाभरणताम् अनयम् ॥

      अत्रान्तरे छत्रग्राहिणी तामेवमवोचत् – ‘भर्तृदारिके! स्नाता देवी। प्रत्यासीदति गृहगमनकालः। तत्क्रियतां मज्जनविधिरिति। अहं तु तन्मुखादतिकृच्छ्रेण दृष्टिमाकृष्य, स्नातुमुदचलम्। स तु तपोधनयुवा ‘चञ्चले! प्रदेशादस्मात् इमाम् अक्षमालाम् अदत्वा पदात्पदमपि न गन्तव्यम्’ इति अलीककोपकान्तेन मुखेन्दुना मामवदत् । तच्च श्रुत्वाऽहमात्मकण्ठादुन्मुच्य एकावलीम् ‘भगवन्! गृह्यतामक्षमाला” इति प्रसारितेऽस्य पाणौ निधाय स्नातुमवातरम्। स्नातोत्थिता च, कथमपि सखीजनेन नीयमाना, तमेव चिन्तयन्ती, स्वभवनमम्बया सममयासिषम्। गत्वा च प्रविश्य कन्यान्तःपुरम्, ततः प्रभृति तद्विरहातुरा सर्वव्यापारानुत्सृज्य एकाकिनी निस्पन्दमतिष्ठम् ॥

व्याख्या                                                                                    अनुवाद

Published in: on December 11, 2007 at 3:37 pm  Leave a Comment  

Day 5

       ततः स्वावासगुहां प्रविश्य वल्कलशयनशिरोभागविन्यस्तवीणया तया विरचितां सपर्यां शिलातलोपविष्टः सप्रश्रयं प्रतिजग्राह । द्वितीय शिलातलोपविष्टा तया क्रमेण परिपृष्टः, दिग्विजयादारभ्य किन्नरमिथुनानुसरणप्रसङ्गेनागमनमात्मनः समाचचक्षे । विदितसकलवृत्तान्ता समुत्थाय सा कन्यका, शङ्खमयं भिक्षाकपालमादाय, आयतनतरुतलेषु विचचार। अचिरेण तस्याः स्वयं पतितैः फलैरापूर्यत भिक्षाभाजनम् । आगत्य च तेषामुपयोगाय नियुक्तवती चन्द्रापीडम् । दृष्ट्वैतत्, स राजकुमारः नास्ति खल्वसाध्यं नाम तपसाम्, किमतः परमाश्चर्यम् इति सविस्मयः समुत्थाय तमेव प्रदेशमिन्द्रायुधमानीय, नातिदूरे संयम्य, निर्झरजलवर्तितस्नानविधिः, तान्यमृतरसस्वादून्युपभुज्य फलानि, पीत्वा च प्रस्रवणजलम् उपस्पृश्यैकान्ते चावतस्थे ॥

      अथ निर्वर्तितसन्ध्योचिताचारां परिसमापिताहारां शिलातले विस्रब्धमुपविष्टां तां निभृतमुपसृत्य, नातिदूरे समुपविश्य, मुहूर्तमिव स्थित्वा चन्द्रापीडः सविनयमवादीत् – ‘भगवति ! महत् खलु भवद्दर्शनात् प्रभृति मम कौतुकमस्मिन् विषये । कतरन्मरुतामृषीणां गन्धर्वाणामप्सरसां वा कुलमनुगृहीतं भगवत्या जन्मना । किमर्थं वाऽस्मिन् कुसुमसुकुमारे नवे वयसि व्रतग्रहणम् ? किन्निमित्तं वा वनमिदममानुषमेकाकिन्यधिवससि? अपनयतु नः कुतूहलम्  । आवेदयतु भवती सर्वम्’ – इति ॥

      एवमभिहिता सा किमप्यन्तर्ध्यायन्ती, तूष्णी मुहूर्तमिव स्थित्वा, दीर्घमुष्णं च निश्वस्य, शनैः प्रत्यवादीत् – ‘राजपुत्र ! किमनेन मम मन्दभाग्यायाः जन्मनः प्रभृति वृत्तान्तेन श्रुतेन । तथापि यदि महत् कुतूहलम्, तत्कथयामि । श्रूयताम् ॥

      पुरा खलु भगवतो दक्षस्य प्रजापतेः अतिप्रभूतानां मध्ये कन्यकानां द्वे सुते मुनिररिष्टा च बभूवतुः। तत्र मुनेस्तनयश्चित्रसेनादीनां पञ्चदशानां भ्रातॄणां षोडशश्चित्ररथो नाम समुत्पन्नः । स च प्रख्यातपराक्रमः सर्वेषां गन्धर्वाणामाधिपत्यं शैशव एवावाप्तवान् । इतश्च नातिदूरे हेमकूटो नाम पर्वतस्तस्य निवासः । तत्र च तद्भुजयुगपरिपालितान्यनेकानि गन्धर्वशतसहस्राणि प्रतिवसन्ति । तेनैव चेदं चैत्ररथं नाम अतिमनोहरं काननं निर्मितम् । इदं चाच्छोदाभिधानं महत्सरः खानितम् । अरिष्टायास्तु पुत्रस्तुम्बुरुप्रभृतीनां षण्णां सोदर्याणां ज्येष्ठो हंसो नाम गन्धर्वः, तस्मिन् द्वितीये गन्धर्वकुले राज्यपदमासादितवान् । तस्यापि स एव गिरिरधिवासः । स च सोममयूखसम्भवादप्सरःकुलात् समुद्भूतां गौरी नाम कन्यकां प्रणयिनीमकरोत् ।

       तयोश्च तादृशयोर्महात्मनोरहमीदृशी विगतलक्षणा शोकाय केवलमैकेव सुता समुत्पन्ना। तातस्त्वनपत्यतया सुतजन्मातिरिक्तेन महोत्सवेन मज्जन्माभिनन्द्य, दशमेऽहनि ‘महाश्वेता’  इत्यन्वर्थमेव नाम कृतवान्। साऽहं पितृभवने बालतया कलमधुरप्रलापिनी वीणेव गन्धर्वाणामङ्कादङ्कं सञ्चरन्ती शैशवमतिनीतवती। क्रमेण च कृतं मे वपुषि कुसुम इव मधुकरेण नवयौवनेन पदम् ॥

व्याख्या                                                                                    अनुवाद

Published in: on December 5, 2007 at 6:41 am  Leave a Comment  

Day 4

तस्य च दक्षिणं तीरमासाद्य, तुरगादवतीर्य, व्यपनीतपर्याणमपगतखलीनमिन्द्रायुधं क्षितितललुठितोत्थितं गृहीतयवसग्रासं सरोऽवतार्य, पीतसलिलमिच्छया स्नातं चोत्थाप्य, अन्यतमस्य समीपवर्तिनस्तरोर्मूलशाखायां कनकशृङ्खलया चरणौ बद्ध्वा, कृपाणिकावलूनान् कतिचित् सरस्तीरदूर्वाकबलान् तदग्रतः क्षिप्त्वा, स्वयमपि सलिलमवततार॥      ततश्च प्रक्षालितकरयुगलः, जलमयमाहारं कृत्वा मृणालशकलान्यास्वाद्य, सरःसलिलादुदगात्॥      उत्तीर्य च प्रत्यग्रभग्नैः कमलिनीपलाशैः लतामण्टपपरिक्षिप्ते शिलातले स्रस्तरमास्तीर्य निषसाद। मुहूर्तं विश्रान्तश्च, तस्य सरसः उत्तरे तीरे समुच्चरन्तं वीणातन्त्रीझाङ्कारमिश्रं श्रुतिसुभगं गीतशब्दमश्रुणोत्। श्रुत्वा च ‘कुतोऽत्र गीतसंभूतिः’ समुपजातकौतुक तत्प्रभवजिज्ञासया दत्तपर्याणं इन्द्रायुधं आरुह्य पश्चिमया सरस्तीरसरण्या संप्रतस्थे ॥      तत्र च शून्ये सिद्धायतने, भगवतश्चराचरगुरोश्चतुर्मुखस्य त्र्यम्बकस्य दक्षिणां मूर्तिमाश्रित्याभिमुखमासीनाम्, हिमकरकिरणावदातवर्णाम्, प्रतिपन्नपाशुपतव्रतां कन्यकां ददर्श। ततोऽवतीर्य, तरुशाखायां बद्ध्वा तुरङ्गमम्, उपसृत्य, भगवते भक्त्या प्रणम्य त्रिलोचनाय, तामेव योषितमनिमेषपक्ष्मणा चक्षुषा निरूपयन्, तस्यामेव स्फटिकमण्टपिकायामन्यतमं स्तम्भमाश्रित्य समुपविष्टः, गीतसमाप्त्यवसरं प्रतीक्षमाणस्तस्थौ ॥

      अथ गीतावसाने मूकीभूतवीणा सा कन्यका, समुत्थाय प्रदक्षिणीकृत्य कृतहरप्रणामा, परिवृत्य चन्द्रापीडमाबभाषे – ‘स्वागतमतिथये, कथमिमां भूमिमनुप्राप्तो महाभागः? उत्थायागम्यताम्, अनुभूयतामतिथिसत्कारः’ – इति। एवमुक्तस्तु तया, संभाषणमात्रेणैवानुगृहीतमात्मानं मन्यमानः, समुत्थाय कृतप्रणामः, ‘भगवति, यथाऽऽज्ञापयसि’ इत्यभिधाय, दर्शितविनयः शिष्य इव तां व्रजन्तीमनुवव्राज ॥

व्याख्या                                                                                    अनुवाद

Published in: on November 17, 2007 at 8:14 pm  Leave a Comment  

Day 3

कतिपयदिवसापगमे च विवेश गर्भो विलासवतीम्। शनैः शनैश्च प्रतिदिनमुपचीयमानगर्भा सा, पूर्णे प्रसवसमये, प्रशस्तायां वेलायाम्, सकललोकहृदयानन्दकारिणं सुतमसूत। तस्मिन्नेव समये शुकनासस्यापि ज्येष्टायां ब्राह्मण्यां मनोरमाभिधानायां तनयो जातः। प्राप्ते च दशमेऽहनि, पुण्ये मुहूर्ते, राजा स्वप्नानुरूपमेव स्वसूनोः चन्द्रापीडः इति नाम चकार। शुकनासोऽपि ब्राह्मणोचिताः सकलाः क्रियाः कृत्वा, विप्रजनोचितमात्मजस्य वैशम्पायन इति नाम चक्रे।।      क्रमेण च कृतचूडाकरणादिबालक्रियाकलापस्य शैशवमतिचक्राम सवैशम्पायनस्य चन्द्रापीडस्य। अथायमचिरेणैव कालेन यथास्वमात्मकौशलं प्रकटयद्भिः पात्रवशादुपजातोत्साहैराचार्यैरुपदिश्यमानाः सर्वा विद्या जग्राह। क्रमेण समारूढयौवनारम्भं शुकनासस्य उपदेशवाग्भिः प्रक्षालितमिव अलंकृतमिव च स्थितं चन्द्रापीडं नरेन्द्रो यौवराज्यपदे प्रत्यतिष्ठिपत्। अथ पारासीकाधिपतिप्रेषितं जलनिधिजलादुत्थितं अयोनिजम् इन्द्रायुधनामानम् अश्वतल्लजमारुह्य चन्द्रापीडः, तुरगान्तरारूढेन वैशम्पायनेनानुगम्यमानः, ससैन्यो दिग्विजयाय प्रतस्थे।।

      प्रथमं शातक्रतवीम्, ततस्त्रिशङ्कुतिलकाम्, ततो वरुणलाञ्छनाम्, अनन्तरं सप्तर्षिताराशबलां दिशं विजिग्ये। ततः क्रमेण प्रदक्षिणीकृत्य वसुधां परिभ्रमन्, कदाचित् सुवर्णपुरं नाम किरातनिवासं नगरं गत्वा, तत्र विश्रामहेतोः कतिपयान् दिवसानतिष्ठत्। एकदा तु तत्रस्थ एवेन्द्रायुधमारुह्य मृगयानिर्गतो विचरन् काननम्, शैलशिखरात् यदृच्छयाऽवतीर्णं किन्नरमिथुनमद्राक्षीत्। अपूर्वदर्शनतया तु समुपजातकुतूहलः, कृतग्रहणाभिलाषः, तत्समीपमुपसर्पन् अदृष्टपूर्वपुरुषदर्शनत्रासात् पलायमानं तत् सुदूरमनुससार।।  

      ‘इदं गृहीतम्, इदं गृहीतम्, इत्यतिरभसाकृष्टचेताः, महाजवतया तुरङ्गस्य मुहूर्तमात्रेण पञ्चदशयोजनमात्रमध्वानं जगाम। तच्च आलोकयत एवास्य संमुखागतमचलशिखरमारुरोह। आरूढे च तस्मिन् शनैः शनैः किन्नरयुगलात् दृष्टिं निवर्त्य, प्रस्तरप्रतिहतगतिप्रसरः, श्रमस्वेदार्द्रशरीरमिन्द्रायुधमात्मानं चावलोक्य, स्वयमेव विहस्याचिन्तयत् –

       ‘अहो! मे शिशोरिव निरर्थकव्यापारेष्वभिनिवेशः। किमनेन किन्नरयुगलेन प्रयोजनम्? यदि गृहीतमिदम्, ततः किम्? अथ न गृहीतम्, ततोऽपि किम्? न चागच्छता किन्नरमिथुने बद्धदृष्टिना मया महावनेऽस्मिन् पन्था निरूपितः, येन प्रतिनिवृत्य यास्यामि। न चास्मिन् प्रदेशे परिभ्रमता मया मर्त्यः कश्चिदासाद्यते, यः सुवर्णपुरगामिनं पन्थानमुपदेक्ष्यति। श्रुतं च मया बहुशः कथ्यमानम् – उत्तरेण सुवर्णपुरं निर्मानुषमरण्यम्, तच्चातिक्रम्य कैलासगिरिरिति। अयं च कैलासः। तदिदानीं प्रतिनिवृत्यैकाकिना स्वयमुत्प्रेक्ष्योत्प्रेक्ष्य दक्षिणामाशां केवलमङ्गीकृत्य गन्तव्यम्। आत्मकृतानां हि दोषाणां नियतमनुभवितव्यं फलमात्मनैव। अयमधुना भगवानंशुमाली दिवसश्रियो रशनामणिरिव मध्यमलङ्करोति। परिश्रान्तश्चायमिन्द्रायुधः। तदेनेमपनीतश्रमं कृत्वा, स्वयं च कस्यचित् तरोरधश्छायायां मुहूर्तं विश्रम्य ततो गमिष्यामि, इति चिन्तयित्वा, सलिलमन्वेषयन्, कस्यचित् तरुषण्डस्य मध्यभागे मनोहरमच्छोदं नाम सरो दृष्टवान् ॥

Published in: on November 17, 2007 at 8:10 pm  Leave a Comment