Day 11

        क्रमेण गत्वा हेमकूटम्, आसाद्य गन्धर्वराजकुलम्, अवाप्य कन्यान्तःपुरम्, श्रीमण्टपस्य मध्यभागे नातिमहतः पर्यङ्कस्योपाश्रये धवलोपधानन्यस्तभुजलतावष्टम्भेनावस्थितां सर्वरमणीयकानानामेकनिवासभूतां कादम्बरीं ददर्श। सा च सरभसमुत्थाय, महाश्वेतां कण्ठे जग्राह। महाश्वेताऽपि दृढदत्तकण्ठग्रहा तामवादीत् – ‘सखि कादम्बरि, भारते वर्षे रक्षितप्रजापीडः तारापीडो नाम राजा वसुमतीम् आसमुद्रं प्रशास्ति। तस्यायं चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनानुगतो भूमिमिमाम्। एष च दर्शनात् प्रभृति प्रकृत्या मे निष्कारणबन्धुतां गतः। कथिता चास्य मया बहुप्रकारं प्रियसखी। तत् ‘अपूर्वदर्शनोऽयम्’ इति विमुच्य लज्जाम्, यथा मयि, तथाऽत्रापि वर्तितव्यम्’ – इति॥

कादम्बरी तु सविभ्रमकृतप्रणामा महाश्वेतया सह पर्यङ्के निषसाद। चन्द्रापीडश्च ससंभ्रमं परिजनोपनीतायां हेमपादाङ्कितायां पीठिकायां समुपाविशत्। परिजनोपनीतेन सलिलेन कादम्बरी स्वयमुत्थाय महाश्वेतायाश्चरणौ प्रक्षाल्य, उत्तरीयांशुकेनापमृज्य, पुनः पर्यङ्कमारुरोह। चन्द्रापीडस्यापि कादम्बर्याः सखी मदलेखा प्रक्षालितवती चरणौ॥

अथ परस्परकुशलानुयोगानन्तरं ताम्बूलदानोद्यतां कादम्बरीं महाश्वेता बभाषे – ‘सखि! सर्वाभिरस्माभिः अयमभिनवागतश्चन्द्रापीडः आराधनीयः। तदस्मै तावद्दीयताम्’ – इति। इत्युक्ता च सा किञ्चिद्विबर्तितावनमितमुखी शनैरव्यक्तमिव – ‘ प्रियसखि! लज्जेऽहमनुपजातपरिचया प्रागल्भ्येनानेन। गृहाण, त्वमेवास्मै प्रयच्छ’ – इति तामुवाच। पुनःपुनरभिधीयमाना च तया, ग्राम्येव कथमपि चिरात् दानाभिमुखं मनश्चक्रे। वेपमानाङ्गयष्टिः च सा, महाश्वेतामुखादनाकृष्टदृष्टिरेव हस्तपल्लवं प्रसार्य, चन्द्रापीडहस्ते ताम्बूलमर्पितवती। गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छत् ॥

अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत् – ‘आयुष्मति! देवश्चित्ररथः, देवी च मदिरा त्वां द्रष्टुमाह्वयतः’ – इति। एवमभिहिता गन्तुकामा सा ‘सखि! चन्द्रापीडः क्वास्ताम्?’ इति कादम्बरीमपृच्छत्। सा तु ‘सखि महाश्वेते! किमेवमभिदधासि? दर्शनादारभ्य शरीरस्याप्ययमेव प्रभुः, किमुत भवनस्य, विभवस्य, परिजनस्य वा। यत्रास्मै रोचते, प्रियसखीहृदयाय वा, तत्रायमास्ताम्’ – इति प्रत्युवाच॥

तच्छ्रुत्वा महाश्वेता – ‘तदत्रैव त्वत्प्रासादसमीपवर्तिनि प्रमदवने क्रीडापर्वतकमणिवेश्मन्यास्ताम्’ – इत्यभिधाय, गन्धर्वराजं द्रष्टुं ययौ। चन्द्रापीडोऽपि तयैव सह निर्गत्य, पूर्वदृष्टेन केयूरकेणोपदिश्यमानमार्गः क्रीडापर्वतमणिमन्दिरमगात्। गते च तस्मिन्, गन्धर्वराजपुत्री विसृज्य सकलं परिजनम्, परिमितपरिचारिकाभिरनुगम्यमाना, प्रासादमारुरोह। तत्र च शयनीये समुपविश्यैवमचिन्तयत् – अहो! किमारब्धं चपलया मया। परित्यक्तः कुलकन्यकानां क्रमः। न परीक्षिताऽस्य चित्तवृत्तिः। आसन्नवर्ती सखीजनोऽप्युपलक्षयतीति मन्दया मया न लक्षितम्। श्रुत्वैतं वृत्तान्तं किं वक्ष्यत्यम्बा तातो वा गन्धर्वलोको वा। किं करोमि! केनोपायेन स्खलितमिदं प्रच्छादयामि। तथा महाश्वेताव्यतिकरेण प्रतिज्ञा कृता। पूर्वकृतपुण्यसञ्चयेनैवायमानीतो मम विप्रलम्भ्कश्चन्द्रापीडः’ – इति संचिन्त्य गुर्वीं लज्जामुवाह॥

Advertisements
Published in: on February 3, 2008 at 12:15 am  Leave a Comment