Day 2

 वैशम्पायनस्तु किंचिदिव ध्यात्वा सादरमब्रवीत् – ‘देव! महतीयं कथा। यदि कौतुकमाकर्ण्यताम् –

अस्ति विन्ध्याटव्यां पम्पाभिधानस्य पद्मसरसः पश्चिमे तीरे महान् जीर्णः शाल्मलीवृक्षः। तस्य कोटरे निवसतः पितुरहमेवैकः सूनुरभवम् । ममैव जायमानस्य प्रसववेदनया अभिभूता जननी मे लोकान्तरमगमत् । मत्संवर्धनपरस्तातोऽपि कालवशात् शबरहस्तगतोऽभवत् ॥

तदा क्षुत्पिपासातुरं भूमौ निपत्य विचेष्टमानं मामुपादाय, स्नानार्थमागतः, भगवतो जाबालेस्तनयः, हारीतो नाम तापसकुमारः, नातिदूरवर्तिनमाश्रममनयत् । तत्र सकुतूहलैः सर्वैर्मुनिकुमारैरहमहमिकासमानीतेन नीवारकणनिकरेण फलरसेन चोपचर्यमाणं मां विलोक्य, भगवान् जाबालिर्नाम महर्षिः, दिव्येन चक्षुषा मद् वृत्तमवगत्य, किञ्चिदिव कृतस्मितः “स्वस्यैवाविनयस्य फलमनेनानुभूयते, इत्यवोचत् ॥

श्रुत्वैतत्, सर्वे तापसाः तमेवं व्यजिज्ञपन् – ‘भगवन् ! आवेद्यताम्, यदनेन कृतमपरस्मिन् जन्मनि । कोऽयमभूत् ? भविष्यति च? अपनयतु नः कुतूहलं भवान्’ – इति। एवमुक्तः स महामुनिस्तानवादीत् – ‘श्रूयतां यदि कुतूहलम्’ ॥

आसीदुज्जयिन्यां तारापीडो नाम राजा। स च राजलक्ष्मीलीलोपधानेन बाहुना सप्तद्वीपवलयां वसुन्धरां विजित्य, शुकनासनाम्नि मन्त्रिणि राज्यभारमारोप्य, सुखमुवास ॥

भूयसाऽपि कालेन सुतमुखदर्शनसुखमलभमानः कदाचिच्चरमे यामिन्याः यामे स्वप्ने सकलान्तःपुरप्रधानभूताया विलासवत्या वदनं सकलकलापरिपूर्णमण्डलं शशिनं प्रविशन्तमद्राक्षीत्। तस्मिन्नेव क्षणे समाहूय शुकनासाय तं स्वप्नमकथयत्। स तं समुपजातहर्षः प्रत्युवाच – ‘देव! संपन्नाः  सुचिरादस्माकं प्रजानां च मनोरथाः। कतिपयैरेवाहोभिरसंदेहमनुभवति स्वामी सुतमुखकमलावलोकनसुखम्। अद्य खलु मयाऽपि स्वप्ने दिव्याकृतिना द्विजेन विकचं पुण्डरीकमुत्सङ्गे देव्या मनोरमाया निहितं दृष्टम्। आवेदयन्ति हि प्रत्यासन्नमानन्दमग्रपातीनि शुभानि निमित्तानि। अवितथफलाश्च प्रायो निशावसानसमयदृश्टा भवन्ति स्वप्नाः’ इति ॥

Advertisements
Published in: on November 17, 2007 at 8:09 pm  Leave a Comment  

The URI to TrackBack this entry is: https://kaadambari.wordpress.com/2007/11/17/day-2/trackback/

RSS feed for comments on this post.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: