Day 10
अथ साऽकथयत् - ‘महाभाग! श्रूयताम् - अमृतसंभवादप्सरः कुलात् मदिरेति नाम्ना मदिरायतेक्षणा कन्यकाऽभूत्। तस्याश्चासौ देवश्चित्ररथः पाणिमग्रहीत् । तयोश्च दुहितृरत्नमुदपादि कादम्बरीति नाम्ना। सा च मे जन्मनः प्रभृति एकासनशयनपानाशना बालमित्रम्। सेयममुनैव मदीयवृत्तान्तेन समुपजातशोका निश्चयमकार्षीत् - ‘नाहं कथञ्चिदपि सशोकायां महाश्वेतायाम् आत्मनः पाणिं ग्राहयिष्यामि’ - इति। गन्धर्वराजश्च कर्णपरम्परया दुहितुर्निश्चयमश्रौषीत्। गच्छति काले, समुपारूढयौवनामालोक्य स ताम् एकापत्यतयाऽतिप्रियतया च न शक्तो बभूव किञ्चिदप्यभिधातुम्। अथायमपश्यन्नुपायान्तरम्, ‘वत्से महाश्वेते! त्वमेव शरणमिदानीं कादम्बरीमनुनेतुम्’ इति संदिश्य, क्षीरोदनामनि कञ्चुकिनमद्यैव प्रत्युषसि मत्समीपं प्रेषितवान्। ततो मया गुरुवचनगौरवेण सखीप्रेम्णा च, ‘सख कादम्बरि! किं दुःखितमपि जनम् अतितरां दुःखयसि? जीवन्तीमिच्छसि चेन्माम्, तत्कुरु गुरुवचनमवितथम्’ इति संदिश्य, क्षीरोदेन सार्धं सा तरलिका विसर्जिता। गतायां च तस्याम्, अनन्तरमेवेमां भूमिपनुप्राप्तो महाभागः’ इत्यभिधाय तूष्णीमभवत्॥
अथ क्रमेण सुप्तामालोक्य महाश्वेताम्, चन्द्रापीडः पल्लवशयने शनैः शनैः समुपविष्टः, ‘किंनु खल्वस्यां वेलायां मामन्तरेण चिन्तयति वैशम्पायनः” इति चिन्तयन्नेव, निद्रां ययौ। अथ क्षीणायां क्षपायाम्, सन्ध्यामुपास्य शिलातले समुपविष्टायां महाश्वेतायाम्, निर्वर्तितप्राभातिकविधौ चन्द्रापीडे, षोडशवर्षवयसा केयूरकनाम्ना गन्धर्वदारकेणानुगम्यमाना तरलिका प्रादुरासीत्। समीपमुपसृत्य कृतप्रणामां तां महाश्वेता ‘किं त्वया दृष्टा प्रियसखी कादम्बरी? करिष्यति वा तदस्मद्वचनम्? ‘इत्यपृच्छत् ॥
अथ सा तरलिका व्यजिज्ञपत् -‘भर्तृदारिके! दृष्टा मया कादम्बरी। विज्ञापिता च निखिलं भर्तृदुहितुः सन्देशम्। आकर्ण्य च यत्तया प्रतिसन्दिष्टम्, तदेष तस्या एव वीणावाहकः केयूरकः कथयिष्यति’ - इति। विरतवचसि तस्याम्, केयूरकोऽब्रवीत् - “भर्तृदारिके! देवी कादम्बरी दत्तकण्ठग्रहा त्वां विज्ञापयति -‘ यत्र भर्तृविरहविधुरा प्रियसखी महत् कृच्छ्रमनुभवति, तत्राहमविगणय्यैतत्, कथमात्मसुखार्थिनी पाणिं ग्राहयिष्यामि। कथं वा मम सुखं भविष्यति? तन्मा कृथाः स्वप्नेऽपि पुनरिममर्थं मनसि” - इति॥
महाश्वेता तु तच्छ्रुत्वा, सुचिरं विचार्य, ‘गच्छ स्वयमेवाहमागत्य यथार्हमाचरिष्यामि’ इत्युक्त्वा, केयूरकं प्राहिणोत्। गते च केयूरके चन्द्रापीडमुवाच - ‘राजपुत्र! रमणीयो हेमकूटः। चित्रा चित्ररथराजधानी। सरलहृदया महानुभावा च कादम्बरी। तदितो मयैव सह गत्वा हेमकूटम्, दृष्ट्वा च तत्र मन्निर्विशेषां कादम्बरीम्, अपनीय तस्या मोहविलसितम्, एकमहो विश्रम्य, श्वोभूते प्रत्यागमिष्यसि’ - इति। इत्युक्तवतीं ताम्, चन्द्रापीडः - ‘भगवति! दर्शनात् प्रभृति परवानयं जनः। कर्तव्येषु यथेष्टं नियुज्यताम्’ - इत्यभिधाय, तया सहैवोदचलत् ॥
The URI to TrackBack this entry is: http://kaadambari.wordpress.com/2008/01/26/day-10/trackback/