Day 9
तच्च श्रुत्वा, दूरादेव मुक्तैकताराक्रन्दा, यथाशक्ति त्वरितैः पादप्रक्षेपैः पदे पदे प्रस्खलन्ती, तं प्रदेशं गत्वा, सरस्तीरसमीपवर्तिनि शशिमणिशिलातले विरचितं मृणालमयं शयनमधिशयानं तत््क्षणविगतजीवितं तं मन्दभाग्या जीवितनाथमद्राक्षम्। उद्भूतमूर्छान्धकारा च, तदा ‘क्वाहमगमम्। किमकरवम्। किं व्यलपम्’ इति सर्वमेव नाज्ञासिषम्। ततश्च तथाभूते तस्मिन्नवस्थान्तरे, मरणैकनिश्चया तरलिकामब्रवम् - ‘अयि! उत्तिष्ठ। काष्ठान्याहृत्य विरचय चिताम्। अनुसरामि जीवितेश्वरम्’ इति।।
अत्रान्तरे चन्द्रमण्डलविनिर्गतो दिव्याकृतिः पुरुषः, मृणालधवलाङगुलिभ्यां बाहुभ्यां तमुपरतमुत््क्षिपन्, गम्भीरेण स्वरेण -’ वत्से महाश्वेते! न परित्याज्यास्त्वया प्राणाः। पुनरपि तवानेन सह भविष्यति समागमः’ इति माम् आदृतः पितेवाभिधाय, सहैवानेन गगनतलमुदपतत्। कपिञ्जलस्तु ‘दुरात्मन्! क्व मे वयस्यमपहृत्य गच्छसि?’ इति अभिधाय, उन्मुखः सवेगमुत्तरीयवल्कलेन परिकरमाबध्य, तमेवानुसरन् अन्तरिक्षमुदगात्। पश्यन्त्या एव मे सर्व एव ते तारागणमध्यमविशन्।।
अहं तु द्वितीयेनेव प्रियमरणेन कपिञ्जलगमनेन द्विगुणीकृतशोका तस्मिन्नेव सरस्तीरे तरलिकाद्वितीया क्षपां क्षपितवती। प्रत्युषसि तूत्थाय तस्मिन्नेव सरसि स्नात्वा, कृतनिश्चया, तमेव कमण्डलुमादाय, तान्येव च वल्कलानि तामेवक्षमालां गृहीत्वा, ब्रह्मचर्यमाश्रित्य, बुद्धवा निस्सारतां संसारस्य देवमिमं अनाथशरणं शरणार्थिनी स्थाणुमाश्रिता। अपरेद्युश्च कुतोऽपि समुपलब्धवृत्तान्तस्तातः सहाम्बया सहबन्धुवर्गेणागत्य तैस्तैरुपायैः गृहगमनाय मे प्रयतमानः दृढनिश्चयां मां विसृज्य, निराशः सशोक एव गृहानयासीत्। साऽहम् ‘एवंविधा निर्लज्जा निष्फलजीविता निःसुखा च’ इत्युक्त्वा वल्कलोपान्तेन वदनमाच्छाद्य, मुक्तकण्ठं प्रारोदीत्।।
चन्द्रापीडस्तु बहुभिरुपसान्त्वनैः संस्थाप्य ताम्, अञ्जलिपुटोपनीतेन निर्झरजलेन प्रक्षालितमुखीमकारयत्। अथ क्षीणे दिवसे, महाश्वेता मन्दं मन्दमुत्थाय, पश्चिमां सन्ध्यामुपास्य, कमण्डलुजलेन प्रक्षालितचरणा, वल्कलशयनीये सखेदमुष्णं च निःश्वस्य निषसाद।।
चन्द्रापीडोऽप्युत्थाय, सकुसुमं प्रस्रवणजलाञ्लिमवकीर्य कृतसन्ध्याप्रणामः, तस्मिन् द्वितीये शिलातले मृदुभिर्लतापल्लवैः शय्यामकल्पयत्। उपविष्टश्च तस्यां पुनः पुनर्मनसा तमेव महाश्वेतावृत्तान्तमनुभावयन् पुनरेनामप्राक्षीत् - भगवति! परिचारिका दुःखसब्रह्मचारिणी तरलिका क्व गता? - इति ।।
The URI to TrackBack this entry is: http://kaadambari.wordpress.com/2008/01/19/day-9/trackback/