Day 8
अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा स्वभवनमयासीत् । तया तु तत्रागत्य ‘किं कृतं, किमभिहितं’ इति सर्वमेव शून्यहृदया नालक्षयम् । गतायां च तस्यां, अस्तमुपगते भगवति सवितरि, किंकर्तव्यतामूढा, तामेव तरलिकामपृच्छम् - ‘अयि तरलिके! कथं न पश्यसि, दृढमाकुलं मे हृदयम् । न स्वयमण्वपि कर्तव्यमलमस्मि परिज्ञातुम्। उपदिशतु मे भवती, यदत्र सांप्रतम्। अयमेवं त्वत्समक्षमेवाभिधाय गतः कपिञ्जलः। यदि तावत् ’इतरकन्यकेव लज्जां विहाय, जनापवादमचिन्तयित्वा, सदाचारमतिक्रम्य, पाणिं ग्राहयामि; तदा गुरुजनातिक्रमादधर्मो महान्। अथ धर्मानुरोधादितरपक्षमङ्गीकरोमि, नियतं स्पृशेन्मां मुनिजनवधजनितं महत् पातकम्’ इत्येवमुच्चारयन्त्यामेव मयि, अभिनवोदितेन रजनिकरबिम्बेन रमणीयताम् अनीयत यामिनी ।।
तदा समुपारूढरागम् अमृतमयमिन्दुमण्डलं मृत्युमिव विलोकयन्तीं मूर्च्छा मां निमीलितलोचनामकार्षीत् । अथ संभ्रान्ता तरलिका सरभसमुपनीताभिः चन्दनचर्चाभिः, तालवृन्तानिलैश्च लब्धसंज्ञां माम् आबद्धाञ्जलिरेवमवादीत् - ‘भर्तृदारिके! किं लज्जया गुरुजनापेक्षया वा। प्रसीद, प्रेषय माम् । आनयामि ते हृदयदयितम्, उत्तिष्ठ, स्वयं वा तत्र गम्यताम्’ इति ।
एवं वादिनीं ताम् ‘उत्तिष्ठ, यथाकथञ्चिदनुद्गतजीविता संभावयामि हृदयदयित जनम्’ इत्यभिदधाना, कथञ्चित्तामेवावलम्ब्योदतिष्ठम। उच्चलितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं चक्षुः। उपजातशङ्का चाचिन्तयम् - ‘इदमपरं किमप्युपक्षिप्तं दैवेन’ - इति। अथ गृहीतविविधकुसुमताम्बूलाङ्गरागया तरलिकयाऽनुगम्यमाना, रक्तांशुकेन कृतशिरोऽवगुण्ठना, केनचिदपि परिजनेनानुपलक्ष्यमाणा, कन्यकान्तःपुरान्निरयासिषम् । निर्गत्य च तत्कालोचितैरालापैस्तया सह तमुद्देशमभ्युपागमम् । तत्र तस्यैव सरसः पश्चिमे तटे पुरुषस्येव रुदितध्वनिं विप्रकर्षात् नातिव्यक्तमुपलक्षयम् । दक्षिणेक्षणस्फुरणेन प्रथममेव मनस्याहितशङ्का, तेन सुतरामवदीर्णहृदया ‘तरलिके! किमिदम्?, इति समयमभिदधाना, तदभिमुखमतित्वरितमगच्छम् ॥
अथ निशीथप्रभावात् दूरादेव विभाव्यमानस्वरम् उन्मुक्तार्तनादम् ‘हा हतोऽस्मि! हा किमिदमापतितम्! हा दुरात्मन् मदन! निर्घृण! किमिदमकृत्यमनुष्ठितम। हा दुर्विनीते महाश्वेते! किमनेन तेऽपकृतम्; आ पाप दुश्चरित चन्द्रचण्डाल! कृतार्थोऽसीदानीम्। हा भगवन् श्वेतकेतो पुत्रवत्सल! न वेत्सि मुषितमात्मानम्। हा तपः! निराश्रयमसि! हा सरस्वति! विधवाऽसि। हा सत्यम्। अनाथमसि। सखे! प्रतिपालय माम्। अहमपि भवन्तमनुयास्यामि। न शक्नोमि भवता विना क्षणप्यवस्थातुम्’ इत्येतान्यन्यानि च विलपन्तं कपिञ्जलमश्रौषम् ॥
The URI to TrackBack this entry is: http://kaadambari.wordpress.com/2007/12/26/day-8/trackback/