Day 7

 अथ च मदन्तरङगनिर्विशेषया तरलिकाख्यया ताम्बूलकरङ्कवाहिन्या सह, तद्गतयैव कथया कथमपि तं दिवसमत्यवाहयम् ॥   

      अथ दिनान्ते छत्रग्राहिणी समागत्य माम् अकथयत् - ‘भर्तृदारिके! यौ तापसकुमारौ अस्माभिच्छोदसरसस्तीरे दृष्टौ, तयोरन्यतरो द्वारि तिष्ठति’ इति । अहं तु अन्यतमं कञ्चुकिनं समाहूय ‘ गच्छ, प्रवेश्यताम् ‘ इति आदिश्य प्राहिणवम् ॥

      अथ मुहूर्तादिव तं तस्य सवयसं कपिञ्जलमागच्छन्तमपश्यम् । अन्तिकमुपगताय चास्मै सादरं स्वयमासनमुपाहरम् । उपविष्टस्य तस्य प्रक्षाल्य चरणौ, उपमृज्योत्तरीयाञ्जलेन, नातिदूरे समुपाविशम् ॥

      अथ कपिञ्जलो मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव तस्यां मत्समीपोपविष्टायां तरलिकायां चक्षुरपातयत्। अहं तु विदिताभिप्राया ‘भगवन्! अव्यतिरिक्तेयमस्मच्छरीरात्। अशङ्कितमभिधीयताम्’ इत्यवोचम्। एवमुक्तश्च मया कपिञ्जल एवमावादीत् “राजपुत्रि! किं ब्रवीमि । वागेव मे नाभिधेयविषयमवतरति त्रपया। किमारब्धं दैवेन। अपगतायां भवत्याम्, सरस्तीरसमीपवर्तिनि लतागहने लिखितमिवावस्थितम्, मन्मथावेशस्य परां कोटिमधिरूढं सवयसमहमद्राक्षम्। उपसृत्य च ‘सखे पुण्डरीक! कथय किमिदम्? ‘इत्यपृच्छम् ॥

      अथ सुचिरं विलोक्य माम्, आयततरं निश्वस्य - ‘सखे कपिञ्जल! प्रत्यक्षितसर्ववृत्तान्तोऽपि किं मां पृच्छसि ‘? इति लज्जामन्थरमवदत् । अहं तु तदाकर्ण्य, यावच्छक्ति निवारणीय इति मनसाऽवधार्याब्रवम् - ‘सखे पुण्डरीक! सुविदितमेतन्मम। केवलमिदमेव पृच्छामि। यदेतारब्धं भवता किमिदं गुरुभिरुपदिष्टम्? उत धर्मशास्त्रेषु पठितम्? उतापरस्तपसां प्रकारः? कथमेतद्युक्तं भवतो मनसाऽपि चिन्तयितुम्! किं पुनराख्यातुम् ईक्षितुं वा। मूढो हि मदनेनायास्यते। तद्वैर्यमवलम्ब्य, निर्भर्त्स्यतामयं दुराचारः कामः’ इत्येवं वदत एव मे वचनमाक्षिप्य, पाणौ मामवलम्ब्य अवोचत् - ‘सखे! किं बहुनोक्तेन? सर्वथा स्वस्थोऽसि। आशीविषवेगविषमाणाम् एतेषां कुसुमचापसायकानां पतितोऽसि न गोचरे। सुखमुपदिश्यते परस्य। मम तु गत इदानीमुपदेशकालः। किं करोमि। को वाऽपरस्त्वत्समो मे जगति बन्धुः। यावत् प्राणिमि, तावदस्य मदनसन्तापस्य प्रतिक्रियां कर्तुमिच्छामि’ - इति ॥

      एतदाकर्ण्याहमचिन्तयम् - ‘अतिभूमिं गतोऽयं न शक्यते निवर्तयितुम्। अकालान्तरक्षमश्चायमस्य मदनविकारः। अतिगर्हितेनाकृत्येनापि रक्षणीयाम् सुहृदसून् मन्यन्ते साधवः। तदतिह्रेपणमकर्तव्यमपि एतदस्माकमवश्यकर्तव्यमापतितम्। का चान्या गतिः। प्रयामि तस्याः सकाशम्। आवेदयाम्येतामवस्थाम्’ इति चिन्तयित्वा, ‘कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय संजातलज्जो निवारयेत्’ इत्यनिवेद्यैव तस्मै, तत् प्रदेशात् सव्याजमुत्थायागतोऽहम् । अत्र यत् प्राप्तकालं तत् करोतु भवती” - इति ॥

      तदाकर्ण्य, ‘दिष्ट्याऽयमनङ्गो मामिव तमप्यनुबध्नाति’ इति सर्वानन्दानामुपरि वर्तमानाम्, ‘किं मया प्रतिपत्तव्यम्’ इति विचारयन्तीमेव मां प्रतीहारी ससंभ्रमं प्रविश्याकथयत् - ‘भर्तृदारिके! त्वमस्वस्थशरीरेति परिजनादुपलभ्य महादेवी प्राप्ता’ - इति। तच्छ्रुत्वा कपिञ्जलः सत्वरमुत्थाय ‘राजपुत्रि! गच्छामि! सुहृत्प्राणरक्षादक्षिणार्थम् अयमञ्जलिः’ इत्यभिधाय, प्रतिवचनम् अप्रतीक्ष्यैव प्रययौ ॥

Published in: on December 22, 2007 at 11:20 pm

The URI to TrackBack this entry is: http://kaadambari.wordpress.com/2007/12/22/day-7/trackback/

RSS feed for comments on this post.

Leave a Comment