Day 6

       अथैकदा मधुमासदिवसेषु अम्बया सममिदमच्छोदं सरः स्नातुमभ्यागमम्। तत्तन्मनोहरोद्देशदर्शनलोभाक्षिप्तहृदया तत्र तत्र सखीजनेन सह व्यचरम्। एकस्मिन् प्रदेशे झटिति वनानिलेनोपनीतम्, अभिभूतान्यपरिमलं अनाघ्रातपूर्वम् कुसुमगन्धमभ्यजिघ्रम्। ‘कुतोऽयं’ इत्युपारूढकुतूहला कतिचित्पदानि गत्वा, अयुग्मलोचनं वशीकर्तुकामं काममिव सनियमम्, अतिमनोहरम्, सवयसा सह स्नानार्थमागतं मुनिकुमारमपश्यम् । तेन च कर्णावतंसीकृता कुसुममञ्जरीमभिवीक्ष्य, ‘अस्या नन्वयं परिमलः’ इति मनसा निश्चित्य, तं तपोधनयुवानम् ईक्षमाणाऽहम्, नवयौवनसुलभेन कुसुमायुधेन परवशीकृता अभवम्॥

      अथ ‘अशेषजनपूजनीया चेयं जातिः’ इति कृत्वा सविभ्रममस्मै प्रणाममकरवम् । कृतप्रणामायां मयि, मद्विकारदर्शनापहृतधैर्यं तमपि कुमारं प्रदीपमिव पवनः तरलतामनयदनङ्गः । अथ मुहूर्तमिव स्थित्वा, तं द्वितीयमस्य सहचरं मुनिबालकमुपसृत्य प्रणामपूर्वकमपृच्छम् - ‘भगवन् ! किमभिधानः? कस्य वाऽयं तपोधनयुवा? किंनाम्नस्तरोरियमनेनावतंसीकृता कुसुममञ्जरी?” - इति ॥

      स तु मामीषद्विहस्याब्रवीत् - ‘बाले! किमनेन पृष्टेन प्रयोजनम्? अथ कौतुकम्, आवेदयामि; श्रूयताम् -

       “अस्ति सकलभुवनप्रख्यातकीर्तिः रूपातिशयितनलकूबरः, श्वेतकेतुर्नाम दिव्यलोकनिवासी महामुनिः। तं च कदाचित् देवतार्चनकमलान्युद्धर्तुं मन्दाकिनीमवतरन्तं पुण्डरीकोपविष्टा देवी लक्ष्मीर्ददर्श । तद्रूपमवलोकयन्त्यास्तस्याः मन्मथविकृतं मन आसीत्। सद्य एव तया मानसः कुमारः उदपादि। ततस्तमादाय सा - ‘भगवन्! गृहाण तवायमात्मजः’ इत्युक्त्वा श्वेतकेतवे ददौ। असावपि तस्य बालजनोचिताः सर्वाः क्रियाः कृत्वा तस्य पुण्डरीकसंभवतया तदेव ‘पुण्डरीक’ इति नाम चक्रे ॥

       ततः क्रमेण तम् आगृहीतसकलविद्याकलापम् अकार्षीत् । सोऽयं संप्रति चतुर्दशीति भगवन्तं भवानीपतिमुपासितुमागतः। इयं च पारिजातकुसुममञ्जरी रूपातिशयबद्धादरया मार्गसङ्गतया नन्दनवनदेवतया समर्पिता अनिच्छतोऽप्यस्य मया कर्णपूरीकृता ” इति ॥

       इत्युक्तवती तस्मिन्, स तपोधनयुवा - ‘अपि कुतूहलिनि! किमनेन प्रश्नायासेन? यदि रुचितपरिमला, गृह्यतामियम्’ इत्युक्त्वा, समुपसृत्य आत्मीयात् श्रवणात् अपनीय मदीये श्रवणपुटे तामकरोत्। तत्क्षणं लज्जया सह तत्करतलात् गलितां तेन अज्ञाताम् अप्राप्तामेव भूतलम् अक्षमालां गृहीत्वा सलीलं कण्ठाभरणताम् अनयम् ॥

      अत्रान्तरे छत्रग्राहिणी तामेवमवोचत् - ‘भर्तृदारिके! स्नाता देवी। प्रत्यासीदति गृहगमनकालः। तत्क्रियतां मज्जनविधिरिति। अहं तु तन्मुखादतिकृच्छ्रेण दृष्टिमाकृष्य, स्नातुमुदचलम्। स तु तपोधनयुवा ‘चञ्चले! प्रदेशादस्मात् इमाम् अक्षमालाम् अदत्वा पदात्पदमपि न गन्तव्यम्’ इति अलीककोपकान्तेन मुखेन्दुना मामवदत् । तच्च श्रुत्वाऽहमात्मकण्ठादुन्मुच्य एकावलीम् ‘भगवन्! गृह्यतामक्षमाला” इति प्रसारितेऽस्य पाणौ निधाय स्नातुमवातरम्। स्नातोत्थिता च, कथमपि सखीजनेन नीयमाना, तमेव चिन्तयन्ती, स्वभवनमम्बया सममयासिषम्। गत्वा च प्रविश्य कन्यान्तःपुरम्, ततः प्रभृति तद्विरहातुरा सर्वव्यापारानुत्सृज्य एकाकिनी निस्पन्दमतिष्ठम् ॥

व्याख्या                                                                                    अनुवाद

Published in: on December 11, 2007 at 3:37 pm

The URI to TrackBack this entry is: http://kaadambari.wordpress.com/2007/12/11/day-6/trackback/

RSS feed for comments on this post.

Leave a Comment