Day 5
ततः स्वावासगुहां प्रविश्य वल्कलशयनशिरोभागविन्यस्तवीणया तया विरचितां सपर्यां शिलातलोपविष्टः सप्रश्रयं प्रतिजग्राह । द्वितीय शिलातलोपविष्टा तया क्रमेण परिपृष्टः, दिग्विजयादारभ्य किन्नरमिथुनानुसरणप्रसङ्गेनागमनमात्मनः समाचचक्षे । विदितसकलवृत्तान्ता समुत्थाय सा कन्यका, शङ्खमयं भिक्षाकपालमादाय, आयतनतरुतलेषु विचचार। अचिरेण तस्याः स्वयं पतितैः फलैरापूर्यत भिक्षाभाजनम् । आगत्य च तेषामुपयोगाय नियुक्तवती चन्द्रापीडम् । दृष्ट्वैतत्, स राजकुमारः नास्ति खल्वसाध्यं नाम तपसाम्, किमतः परमाश्चर्यम् इति सविस्मयः समुत्थाय तमेव प्रदेशमिन्द्रायुधमानीय, नातिदूरे संयम्य, निर्झरजलवर्तितस्नानविधिः, तान्यमृतरसस्वादून्युपभुज्य फलानि, पीत्वा च प्रस्रवणजलम् उपस्पृश्यैकान्ते चावतस्थे ॥
अथ निर्वर्तितसन्ध्योचिताचारां परिसमापिताहारां शिलातले विस्रब्धमुपविष्टां तां निभृतमुपसृत्य, नातिदूरे समुपविश्य, मुहूर्तमिव स्थित्वा चन्द्रापीडः सविनयमवादीत् - ‘भगवति ! महत् खलु भवद्दर्शनात् प्रभृति मम कौतुकमस्मिन् विषये । कतरन्मरुतामृषीणां गन्धर्वाणामप्सरसां वा कुलमनुगृहीतं भगवत्या जन्मना । किमर्थं वाऽस्मिन् कुसुमसुकुमारे नवे वयसि व्रतग्रहणम् ? किन्निमित्तं वा वनमिदममानुषमेकाकिन्यधिवससि? अपनयतु नः कुतूहलम् । आवेदयतु भवती सर्वम्’ - इति ॥
एवमभिहिता सा किमप्यन्तर्ध्यायन्ती, तूष्णी मुहूर्तमिव स्थित्वा, दीर्घमुष्णं च निश्वस्य, शनैः प्रत्यवादीत् - ‘राजपुत्र ! किमनेन मम मन्दभाग्यायाः जन्मनः प्रभृति वृत्तान्तेन श्रुतेन । तथापि यदि महत् कुतूहलम्, तत्कथयामि । श्रूयताम् ॥
पुरा खलु भगवतो दक्षस्य प्रजापतेः अतिप्रभूतानां मध्ये कन्यकानां द्वे सुते मुनिररिष्टा च बभूवतुः। तत्र मुनेस्तनयश्चित्रसेनादीनां पञ्चदशानां भ्रातॄणां षोडशश्चित्ररथो नाम समुत्पन्नः । स च प्रख्यातपराक्रमः सर्वेषां गन्धर्वाणामाधिपत्यं शैशव एवावाप्तवान् । इतश्च नातिदूरे हेमकूटो नाम पर्वतस्तस्य निवासः । तत्र च तद्भुजयुगपरिपालितान्यनेकानि गन्धर्वशतसहस्राणि प्रतिवसन्ति । तेनैव चेदं चैत्ररथं नाम अतिमनोहरं काननं निर्मितम् । इदं चाच्छोदाभिधानं महत्सरः खानितम् । अरिष्टायास्तु पुत्रस्तुम्बुरुप्रभृतीनां षण्णां सोदर्याणां ज्येष्ठो हंसो नाम गन्धर्वः, तस्मिन् द्वितीये गन्धर्वकुले राज्यपदमासादितवान् । तस्यापि स एव गिरिरधिवासः । स च सोममयूखसम्भवादप्सरःकुलात् समुद्भूतां गौरी नाम कन्यकां प्रणयिनीमकरोत् ।
तयोश्च तादृशयोर्महात्मनोरहमीदृशी विगतलक्षणा शोकाय केवलमैकेव सुता समुत्पन्ना। तातस्त्वनपत्यतया सुतजन्मातिरिक्तेन महोत्सवेन मज्जन्माभिनन्द्य, दशमेऽहनि ‘महाश्वेता’ इत्यन्वर्थमेव नाम कृतवान्। साऽहं पितृभवने बालतया कलमधुरप्रलापिनी वीणेव गन्धर्वाणामङ्कादङ्कं सञ्चरन्ती शैशवमतिनीतवती। क्रमेण च कृतं मे वपुषि कुसुम इव मधुकरेण नवयौवनेन पदम् ॥
व्याख्या अनुवाद
The URI to TrackBack this entry is: http://kaadambari.wordpress.com/2007/12/05/day-5/trackback/