Day 3

कतिपयदिवसापगमे च विवेश गर्भो विलासवतीम्। शनैः शनैश्च प्रतिदिनमुपचीयमानगर्भा सा, पूर्णे प्रसवसमये, प्रशस्तायां वेलायाम्, सकललोकहृदयानन्दकारिणं सुतमसूत। तस्मिन्नेव समये शुकनासस्यापि ज्येष्टायां ब्राह्मण्यां मनोरमाभिधानायां तनयो जातः। प्राप्ते च दशमेऽहनि, पुण्ये मुहूर्ते, राजा स्वप्नानुरूपमेव स्वसूनोः चन्द्रापीडः इति नाम चकार। शुकनासोऽपि ब्राह्मणोचिताः सकलाः क्रियाः कृत्वा, विप्रजनोचितमात्मजस्य वैशम्पायन इति नाम चक्रे।।      क्रमेण च कृतचूडाकरणादिबालक्रियाकलापस्य शैशवमतिचक्राम सवैशम्पायनस्य चन्द्रापीडस्य। अथायमचिरेणैव कालेन यथास्वमात्मकौशलं प्रकटयद्भिः पात्रवशादुपजातोत्साहैराचार्यैरुपदिश्यमानाः सर्वा विद्या जग्राह। क्रमेण समारूढयौवनारम्भं शुकनासस्य उपदेशवाग्भिः प्रक्षालितमिव अलंकृतमिव च स्थितं चन्द्रापीडं नरेन्द्रो यौवराज्यपदे प्रत्यतिष्ठिपत्। अथ पारासीकाधिपतिप्रेषितं जलनिधिजलादुत्थितं अयोनिजम् इन्द्रायुधनामानम् अश्वतल्लजमारुह्य चन्द्रापीडः, तुरगान्तरारूढेन वैशम्पायनेनानुगम्यमानः, ससैन्यो दिग्विजयाय प्रतस्थे।।

      प्रथमं शातक्रतवीम्, ततस्त्रिशङ्कुतिलकाम्, ततो वरुणलाञ्छनाम्, अनन्तरं सप्तर्षिताराशबलां दिशं विजिग्ये। ततः क्रमेण प्रदक्षिणीकृत्य वसुधां परिभ्रमन्, कदाचित् सुवर्णपुरं नाम किरातनिवासं नगरं गत्वा, तत्र विश्रामहेतोः कतिपयान् दिवसानतिष्ठत्। एकदा तु तत्रस्थ एवेन्द्रायुधमारुह्य मृगयानिर्गतो विचरन् काननम्, शैलशिखरात् यदृच्छयाऽवतीर्णं किन्नरमिथुनमद्राक्षीत्। अपूर्वदर्शनतया तु समुपजातकुतूहलः, कृतग्रहणाभिलाषः, तत्समीपमुपसर्पन् अदृष्टपूर्वपुरुषदर्शनत्रासात् पलायमानं तत् सुदूरमनुससार।।  

      ‘इदं गृहीतम्, इदं गृहीतम्, इत्यतिरभसाकृष्टचेताः, महाजवतया तुरङ्गस्य मुहूर्तमात्रेण पञ्चदशयोजनमात्रमध्वानं जगाम। तच्च आलोकयत एवास्य संमुखागतमचलशिखरमारुरोह। आरूढे च तस्मिन् शनैः शनैः किन्नरयुगलात् दृष्टिं निवर्त्य, प्रस्तरप्रतिहतगतिप्रसरः, श्रमस्वेदार्द्रशरीरमिन्द्रायुधमात्मानं चावलोक्य, स्वयमेव विहस्याचिन्तयत् -

       ‘अहो! मे शिशोरिव निरर्थकव्यापारेष्वभिनिवेशः। किमनेन किन्नरयुगलेन प्रयोजनम्? यदि गृहीतमिदम्, ततः किम्? अथ न गृहीतम्, ततोऽपि किम्? न चागच्छता किन्नरमिथुने बद्धदृष्टिना मया महावनेऽस्मिन् पन्था निरूपितः, येन प्रतिनिवृत्य यास्यामि। न चास्मिन् प्रदेशे परिभ्रमता मया मर्त्यः कश्चिदासाद्यते, यः सुवर्णपुरगामिनं पन्थानमुपदेक्ष्यति। श्रुतं च मया बहुशः कथ्यमानम् - उत्तरेण सुवर्णपुरं निर्मानुषमरण्यम्, तच्चातिक्रम्य कैलासगिरिरिति। अयं च कैलासः। तदिदानीं प्रतिनिवृत्यैकाकिना स्वयमुत्प्रेक्ष्योत्प्रेक्ष्य दक्षिणामाशां केवलमङ्गीकृत्य गन्तव्यम्। आत्मकृतानां हि दोषाणां नियतमनुभवितव्यं फलमात्मनैव। अयमधुना भगवानंशुमाली दिवसश्रियो रशनामणिरिव मध्यमलङ्करोति। परिश्रान्तश्चायमिन्द्रायुधः। तदेनेमपनीतश्रमं कृत्वा, स्वयं च कस्यचित् तरोरधश्छायायां मुहूर्तं विश्रम्य ततो गमिष्यामि, इति चिन्तयित्वा, सलिलमन्वेषयन्, कस्यचित् तरुषण्डस्य मध्यभागे मनोहरमच्छोदं नाम सरो दृष्टवान् ॥

Published in: on November 17, 2007 at 8:10 pm

The URI to TrackBack this entry is: http://kaadambari.wordpress.com/2007/11/17/day-3/trackback/

RSS feed for comments on this post.

Leave a Comment